कोलाहलः

सुधाव्याख्या

कोलाहल इति । 'कुल संस्त्याने’ । (भ्वा० प० से०) । कोलनम् । कोल एकीभावः । तमाहलति । ‘हल विलेखने' (भ्वा० प० से०) । अच् (३.३.१३४) । कः (३.२.३) वा ॥


प्रक्रिया

धातुः - कुलँ संस्त्याने बन्धुषु च , हलँ विलेखने


कुलँ संस्त्याने बन्धुषु च
कुल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुल् + अच् - आशंसावचने लिङ् 3.3.134
कुल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कोल - पुगन्तलघूपधस्य च 7.3.86
हलँ विलेखने
हल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + हल् + अच् - आशंसावचने लिङ् 3.3.134
आ + हल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कोल + अम् + आहल + सु - उपपदमतिङ् 2.2.19
कोल + आहल - सुपो धातुप्रातिपदिकयोः 2.4.71
कोलाहल - अकः सवर्णे दीर्घः 6.1.101
कोलाहल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कोलाहल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोलाहल + रु - ससजुषो रुः 8.2.66
कोलाहल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोलाहलः - खरवसानयोर्विसर्जनीयः 8.3.15