क्वणनम्

सुधाव्याख्या

ल्युट् (३.३.११५) ॥ (यत्तु) पञ्च वीणाया अन्यस्य च किन्नरादेः क्वणने इति मुकुटः । तन्न । अपिशब्देन पूर्वान्वयस्य बोधनात् । अतः षडपि भूषणध्वनेः । वीणाया इति । प्रादेरिति । उपसर्गात् । ’वीणायां च' (३.३.६५) इत्यंशेन सोपसर्गादपि विधानात् । आदिशब्दादुपक्वणादयः ॥