शिञ्जितम्

सुधाव्याख्या

भूषणानामिति । भूषणानां ध्वनौ । 'शिजि अव्यक्ते शब्दे' (अ० आ० से०) । तालव्यादिः । भावे क्तः (३.३.११४) ॥ 'गुरोश्च-' (३.३.१०३) इत्यप्रत्यये 'शिञ्जा' अपि - इति स्वामी ॥