अवर्णः

सुधाव्याख्या

यथा अवर्णादयो निन्दायाम्, तथोपक्रोशादयोऽपीत्यर्थः । वर्ण्यते । वर्ण वर्णने (चु० प० से०) । घञ् (३.३.१८) । वर्णः प्रशंसा । तद्विरुद्धोऽवर्णः । 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने ॥