पुण्यम्

सुधाव्याख्या

पुनाति । ‘पूञो यण् णुक् हस्वश्च' (उ० ५.१५) इति यत् णुक् ह्रस्वश्च । यद्वा पुणति । पुण कर्माणि शुभे' (तु० प० से०) । ‘इगुपध (३.१.१३५) इति कः । पुणमर्हति । तत्र साधुर्वा । यत् (५.१.६६) । (पुण्यं तु सुन्दरे । सुकृते पावने धर्मे) ।