प्रौष्ठपदः

सुधाव्याख्या

प्रोष्ठपदाभिर्युक्ता प्रौष्ठपदी । भद्रा भद्रपदा । ताभिर्युक्ता भाद्री भाद्रपदी च पौर्णमासी । ततः समास्मिन्' (४.२.२१) इत्यण् ।