मुहूर्तः

सुधाव्याख्या

ते तु क्षणाः (द्वादश) । ‘हुर्छा कौटिल्ये (भ्वा० प० से०) । बाहुलकात् ’अञ्जिघृसि-' (उ० ३.८९) इति क्तो मुडागमश्च । 'राल्लोपः(६.४.२१) इति छलोपः । 'हलि च' (८.२.७७) इति दीर्घः । ’लिङ् चौर्ध्वमौहूर्तिके (३.३.१६४) इति निर्देशाद्वा मुहूर्तः ।