काष्ठा

सुधाव्याख्या

अष्टादशेति । ‘क्षणद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम्’ इत्यादिशास्त्रसिद्धा निमेषाः । तेऽष्टादश काष्ठा । काशते । हनिकुषि-' (उ० २.२) इति कथन् । 'काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । स्याद्दिशि स्थानमात्रे च ‘काष्ठमाख्यातमिन्द्रिये' इति विश्वः ।