कादम्बिनी

सुधाव्याख्या

कादम्बिनीति । कादम्बाः कलहंसा बलाकावन्मेघमनुधावन्ति । ते सन्त्यस्याः । इनिः (५.२.११५) । यत्तु ज्योत्स्नादित्वात् (वा० ५.२१०३) अणि ङीप् (४.१.१५) इति मुकुटः । तन्न । एवं हि कादम्बी इति प्रयोगप्रसक्तेः । कदम्बस्य विकासः = कादम्बोऽस्त्यस्याः कार्यत्वेनेति वा ।।