सुप्रतीकः

सुधाव्याख्या

शोभनाः प्रतीका अवयवा यस्य । ‘सुप्रतीको दिगीशेभे, शोभनावयवे त्रिषु । दिक्षु विख्याता गजाः । दिगीशा गजा इति वा । 'शाकपार्थिवादिः (२.१.६९) । इन्द्रादिगजानाम्


प्रक्रिया

सु + प्रतीक + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
सु + प्रतीक - सुपो धातुप्रातिपदिकयोः 2.4.71
सुप्रतीक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुप्रतीक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुप्रतीक + रु - ससजुषो रुः 8.2.66
सुप्रतीक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुप्रतीकः -खरवसानयोर्विसर्जनीयः 8.3.15