मिहिरः

सुधाव्याख्या

मेहति । मिह सेचने ’ (भ्वा० प० अ०) । 'इषिमदि-' (उ० १.५१) इति किरच् । मिहिरः सूर्यबुद्धयोः' । महेः किरचि महिरोऽपि । ‘महिर मिहिरगीथाः कालकृत्पद्मपाणिः’ इति त्रिकाण्डशेषात् ।


प्रक्रिया

धातुः - मिहँ सेचने


मिह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मिह् + किरच् - इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् (१.५१) । उणादिसूत्रम् ।
मिह् + इर - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मिहिर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मिहिर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मिहिर + रु - ससजुषो रुः 8.2.66
मिहिर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मिहिरः - खरवसानयोर्विसर्जनीयः 8.3.15