मार्तण्डः

सुधाव्याख्या

मृतेऽण्डे भवः । शकन्ध्वादिः (वा० ६.१.९४) । ‘परा मार्ताण्डमास्यत् । पुनर्मार्ताण्डमाभरत्' इत्यादिमन्त्राद्दीर्घोऽपि । 'अथ मार्तण्डमार्ताण्डौ' इति नामनिधानाच्छब्दार्णवाच्च । ‘मार्तण्डः क्रोडसूर्ययो:’ ।।


प्रक्रिया

मृत + सु + अण्ड + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
मृत + अण्ड - सुपो धातुप्रातिपदिकयोः 2.4.71
मृतण्ड - शकन्ध्वादिषु पररूपं वक्तव्यम् (६.१.९४) । वार्तिकम् ।
मृतण्ड + सु + अण् - तत्र भवः 4.3.53
मृतण्ड + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
मृतण्ड + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृतण्ड् + अ - यस्येति च 6.4.148
मार्तण्ड - तद्धितेष्वचामादेः 7.2.117
मार्तण्ड + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मार्तण्ड + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मार्तण्ड + रु - ससजुषो रुः 8.2.66
मार्तण्ड + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मार्तण्डः - खरवसानयोर्विसर्जनीयः 8.3.15