अर्कः

सुधाव्याख्या

अर्च्यते । अर्च पूजायाम्' (भ्वा० प० से०) । कर्मणि घञ् (३.३.१८) । ‘चजोः-' (७.३५२) इति कुत्वम् । यद्वा ‘कृदाधारार्चिकलिभ्यः कः’ (उ० ३.४०) चोः कु’ (८.२.३०) ( 'झरो झरि (८.४.६५) कलोपः) । यद्वा ‘अर्क स्तवने’ (चु० प० से०) चुरादिः । अर्क्यते । 'एरच्' (३.३.५६) ‘एरजण्यन्तानाम्’ इति मते घञ् । (अर्को द्रुभेदे स्फटिके ताम्रे सूर्ये बिडौजसि')।