लग्नः

सुधाव्याख्या

लगति फले । ‘लगे सङ्गे’ (भ्वा० प० से०) । क्षुब्धस्वान्त-' (७.२.१८) इति क्तस्येडभावः तस्य नश्च निपात्यते । यत्तु लगति साध्ये निजे, इति विग्रहं प्रदर्श्य ओलजी ओलस्जी व्रीडे" (तु० आ० से०) इति धातोरुपन्यसनं मुकुटेन कृतम् । तन्न । उक्तधातोर्लगतिरूपाभावात् । प्रकृतेऽर्थासंगतेश्च । अत: ‘श्वीदितो निष्ठायाम् (७.२.१४) । ‘ओदितश्च’ (८.२.४५) इति सूत्रयोरुपन्यासो व्यर्थ: । ‘लग्नं राश्युदये क्लीबं सक्तलज्जि तयोस्त्रिषु ।