सप्तर्षयः

सुधाव्याख्या

सप्त च ते ऋषयश्च । दिक्संख्ये- (२.१.५०) इति द्विगुः । ‘चित्रः शिखण्डश्चूडाविशेषोऽस्त्येषाम्’ इति व्युत्पत्त्या प्रत्येकं सप्तापि चित्रशिखण्डिनः । ‘मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः' ।