शीकरः

सुधाव्याख्या

शीकर इति । सृता वायुना इतस्ततः प्रेरिता अम्बुकणाः शीकराः । तालव्यादिः । ‘शम्बशीकरपांशवः’ इति तालव्यप्रकरणे ऊष्मविवेकात् । शीकृ सेचने' (भ्वा० आ० से०) । 'ऋच्छेररन् (उ० ३.१३१) इति बाहुलकादरन् । (‘शीकरं सरले वातसृताम्बुकणयोः पुमान्’) (सीकरः) ‘दन्त्यादिरयम्' इति धनपालादय: ।।