अवग्राहः

सुधाव्याख्या

तद्विघात इति । तस्या वृष्टर्विघाते द्वौ । ‘अवे ग्रहो वर्षप्रतिबन्धे’ (३.३.५१) इति अवपूर्वाग्रहेर्वा घञ् | ग्रहवृदृनिश्चिगमश्च (३.३.५८) इत्यपि अवग्रहः । (अवग्रहस्तु ज्ञानभेदे गजालिके । प्रतिबन्धे वृष्टिरोधे)