वर्षम्

सुधाव्याख्या

'अज्विधौ भयादीनामुपसंख्यानम्’ (वा० ३.३.५६) इत्यचि वर्षम् । ल्युटि (३.३.११५) वर्षणमपि । न चाचा ('नपुंसके क्तादिनिवृत्त्यर्थम् इति (३.३५६) भाष्योक्त्या क्तस्येव) ल्युटो बाध: । ‘वृषभो वर्षणात्' (पस्पशायाम्) इति भाष्यप्रयोगात् । अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम्’ इति शब्दार्णवः । वर्षस्तु समाद्वीपांशवृष्टिषु । वर्षवरेऽपि वर्षास्तु प्रावृषि इति हैमः ।


प्रक्रिया

धातुः - वृषुँ सेचनहिंसासङ्क्लेशनेषु


वृष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृष् + अच् - भयादीनामुपसङ्ख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम् (३.३.५६) । वार्तिकम् ।
वृष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वर्ष् + अ - पुगन्तलघूपधस्य च 7.3.86
वर्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वर्ष + अम् - अतोऽम् 7.1.24
वर्षम् - अमि पूर्वः 6.1.107