अपाची

सुधाव्याख्या

अह्नो मध्येऽञ्चत्यस्याम् । अपाची । ’अप’ इत्यव्ययं मध्यार्थेऽपदिशमितिवत् । अपाञ्चति सूर्यम् इत्युचितम् । कर्तरि कृद्विधानात् । अवाची इत्यपपाठ एव । अवपूर्वस्याञ्चतेरधोमुखी भावे वृत्तेः। स्वामी त्ववशब्दस्य मध्यार्थतामाह ।।


प्रक्रिया

धातुः - अन्चुँ गतिपूजनयोः


अञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अप + अञ्च् + क्विन् - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 3.2.59
अप + अञ्च् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अप + अञ्च् - वेरपृक्तस्य 6.1.67
अप + अच् - अनिदितां हल उपधायाः क्ङिति 6.4.24
अपाच् - अकः सवर्णे दीर्घः 6.1.101
अपाच् + ङीप् - उगितश्च 4.1.6
अपाच् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अपाची + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अपाची + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अपाची - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68