प्राची

सुधाव्याख्या

प्राच्येति । प्राथम्ये प्रशब्दोऽत्र । प्राञ्चति प्राप्नोति सूर्यम् । अञ्चु गतिपूजनयो:’ (भ्वा० प० से०) । 'ऋत्विग्-’ (३.२.५९) इत्यादिना क्विन् प्रत्ययः । प्राञ्चति रविरस्याम् । बाहुलकादधिकरणे क्विन् इति मुकुटः । तन्न । बाहुलकस्या गतिकगतित्वात् । एवमग्रेऽपि बोध्यम् ।


प्रक्रिया

धातुः - अन्चुँ गतिपूजनयोः


अञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + अञ्च् + क्विन् - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 3.2.59
प्र + अञ्च् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + अञ्च् - वेरपृक्तस्य 6.1.67
प्र + अच् - अनिदितां हल उपधायाः क्ङिति 6.4.24
प्राच् - अकः सवर्णे दीर्घः 6.1.101
प्राच् + ङीप् - उगितश्च 4.1.6
प्राच् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्राची + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्राची + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्राची - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68