हरितः

सुधाव्याख्या

हरन्ति नयन्त्यनया । ‘हृसृरुहियुषिभ्य इतिः’ (उ० १.९७) । ‘हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे' । ता इत्यनेन स्त्रीत्वं व्यनक्ति । दिशां बहुत्वाद्बहुवचनम् ।