ककुभः

सुधाव्याख्या

ककते । ‘ककलौल्ये (भ्वा० प० से०) । बाहुलकादुभ् प्रत्ययः । यद्वा-कं वातं स्कुभ्नाति विस्तारयति । स्कुभु' इति सौत्राद्धातोः क्विप् (३.२.१७८) । पृषोदरादित्वात् (६.३.१०९) सलोपः । ‘ककुप् स्त्रियां प्रवेणीदिक्शोभासु चपम्कस्रजि’ । केनादित्येन जलेन वा कुत्सितानि भानि नक्षत्राण्यत्रेति टाबन्तोऽपि इति कश्चित् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् ।