दिशः

सुधाव्याख्या

दिश इति । दिशत्यवकाशम् । ‘दिश अतिसर्जने’ (तु० उ० अ०) । क्विन् 'ऋत्विग्दधृक्-’ (३.२.५९) इत्यादिना निपातनात् । यतु - मुकुटः कर्मण्येव क्विन्, कर्तरि तु क्विबेव- इत्याह । तन्निर्मूलम्, आकरविरुद्धं च ॥ भागरिमतेन टापि दिशा । दिक् तु स्त्रियां दिशा दान्ती ककुब् देववधूः पवि:’ इति शब्दार्णवः ।