जलनिर्गमाः

सुधाव्याख्या

निर्गमनानि । 'गम्लृ गतौ' (भ्वा० प० अ०) । ‘ग्रहवृदृनिश्चिगमश्च’ (३.३.५८) इत्यप् । करणे वा । 'खनो घ च' (३.३.१२५) । इति घः । जलानां निर्गमाः । द्वे जलनिःसरणजालकस्य । नद्यादौ अध:स्थजलस्योर्ध्वनिःसरणस्येत्यन्ये । स्वामी तु—चत्वार्थेकार्थानि इत्याह ।