भ्रमाः

सुधाव्याख्या

भ्रमा इति । भ्रमन्ति जलान्यत्र । ‘हलश्च’ (३.३.१२१) इति घञ् । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि' (१) निर्गमनानि । 'गम्लृ गतौ' (भ्वा० प० अ०) । ‘ग्रहवृदृनिश्चिगमश्च’ (३.३.५८) इत्यप् । करणे वा । 'खनो घ च' (३.३.१२५) । इति घः । जलानां निर्गमाः ।