वक्रम्

सुधाव्याख्या

वक्राणीति । वञ्चन्ति । ‘वञ्चु गतौ’ (भ्वा० प० से) । ‘स्फायितश्चि- '(उ० २.१३) इति रक् । ‘न्यङ्क्वादीनां च (७.३.५३) इति कुत्वम् । ‘वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः’ इति हैमः । 'वक्रः शनैश्चरे पुंसि, पुटभेदे नपुंसकम् । त्रिषु क्रूरे च कुटिले’ । स्वामी तु-चक्राकारेण यान्त्यधः इति विगृह्णन् चवर्गादित्वं मन्यते । 'चक्रः कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः । जलावर्तेऽपि’ इति चादौ मेदिनी ॥


प्रक्रिया

धातुः - वन्चुँ गतौ


वञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वञ्च् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
वञ्च् + र हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वच् + र - अनिदितां हल उपधायाः क्ङिति 6.4.24
वक् + र - न्यङ्क्वादीनां च 7.3.53
वक्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वक्र + अम् - अतोऽम् 7.1.24
वक्रम् - अमि पूर्वः 6.1.107