षण्डम्

सुधाव्याख्या

अब्जेति । सनोति । ‘षणु दाने’ (तु० उ० से०) । 'ञमन्ताड्डः (उ० १.१११) । बाहुलकात्सत्वाभावः । 'षण्डः स्मृतो बलीवर्दे षण्डं तु कानने भवेत्’ इति मूर्धन्यादावजयः । ‘षण्डं पद्मादिसंघाते न स्त्री स्याद् गोपतौ पुमान्’ । ‘शडि रुजायां संघाते च' (भ्वा० आ० से०) । घञ् (३.३.१८) । तालव्यो मूर्धन्योऽब्जादिकदम्बे शण्डशब्दोऽयम् । मूर्धन्य एव वृषभे पूर्वाचार्यैर्विनिर्दिष्टः’ इत्यूष्मविवेकः । मकुरमुकुरै दर्पणे, षण्डः समूहे, दारदोऽम्बुधौ’ इति सारस्वतकोशः । एकम् अब्जादीनां समूहस्य ।