मृणालम्

सुधाव्याख्या

अथेति । मृण्यते । ‘मृण हिंसायाम्' (तु० प० से०) । 'तमिविशिबिडिमृणि-' (उ० १.११८) इति कालन् । अपचयविवक्षायां गौरादित्वात् (४.१.४१) ङीषि 'मृणाली इत्यपि । 'मृणालं नलदे क्लीबं पुंनपुंसकयोर्विसे ।’ इति मेदिनी ॥


प्रक्रिया

धातुः - मृणँ हिंसायाम्


मृण् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मृण् + कालन् – तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन् (१.११८) । उणादिसूत्रम् ।
मृण् + आल - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृणाल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मृणाल + अम् - अतोऽम् 7.1.24
मृणालम् - अमि पूर्वः 6.1.107