कोकनदम्

सुधाव्याख्या

कोकांश्चकवाकान् नदति । 'णद अव्यक्ते शब्दे’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । मूलविभुजादिः (वा० ३.२.५) । अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे’ इति मेदिनी । त्रीणि रक्तकमलस्य ।