कैरवः

सुधाव्याख्या

के जले रौति । ‘रु शब्दे’ (अ० प० अ०) । पचाद्यच् (३.१.१३४) । ‘तत्पुरुषे कृति-’ (६.३.१४) इत्यलुक् । केरवस्य हंसस्येदं प्रियम् । कैरवं चन्द्रकान्तं गर्दभं कुमुदं कुमुदे' इति माधवः । ('कैरवं कितवे रिपौ । नपुंसकं च कुमुदे, चन्द्रिकायां तु कैरवी’) 'चन्द्रकान्तं तु कैरवे । चन्द्रकान्तो रत्नभेदे । (२) द्वे शुक्लोत्पलस्य ।


प्रक्रिया

धातुः - रु शब्दे


क + ङि + रु + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134, उपपदमतिङ् 2.2.19
के + रु + अच् - तत्पुरुषे कृति बहुलम् 6.3.14, आद्गुणः 6.1.87
के + रु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
केरो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
केरव् + अ - एचोऽयवायावः 6.1.78
केरव + ङस् + अण् - तस्येदम् 4.3.120
केरव + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
केरव + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
केरव् + अ - यस्येति च 6.4.148
कैरव - तद्धितेष्वचामादेः 7.2.117
कैरव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कैरव + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कैरव + रु - ससजुषो रुः 8.2.66
कैरव + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कैरवः - खरवसानयोर्विसर्जनीयः 8.3.15