इन्दीवरम्

सुधाव्याख्या

इन्दति । 'इदि परमैश्वर्ये' (भ्वा० प० से०) । इन् (उ० ४.११८) । ‘कृदिकारात्-' (ग० ४.१.४५) इति ङीष् । इन्दी लक्ष्मीः । तस्या वरमिष्टम् । 'इन्दीवरं कुवलये शतावर्या च योषिति' । 'कुवलयं स्यादिन्दीवारमित्यपि' इति व्याडेरिन्दीवारमपि । (२)द्वे नीलोत्पलस्य ।


प्रक्रिया

धातुः - इदिँ परमैश्वर्ये


इद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इ + नुम् + द् - इदितो नुम् धातोः 7.1.58
इन्द् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इंद् नश्चापदान्तस्य झलि 8.3.24
इन्द् - अनुस्वारस्य ययि परसवर्णः 8.4.58
इन्द् + इन् – सर्वधातुभ्य इन् (उ० ४.११८) । उणादिसूत्रम् ।
इन्द् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इन्दि + ङीष् – गणसूत्रम् 4.1.45
इन्दि + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इन्द् + ई - यस्येति च 6.4.148
इन्दी + ङस् + वर + सु - षष्ठी 2.2.8
इन्दी + वर - सुपो धातुप्रातिपदिकयोः 2.4.71
इन्दीवर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इन्दीवर + अम् - अतोऽम् 7.1.24
इन्दीवरम् - अमि पूर्वः 6.1.107