कुवलयम्

सुधाव्याख्या

कोर्वलयमिव । शोभाकरत्वात् । ‘कुवलं तूत्पलं कुवम्’ इति त्रिकाण्डशेषः । तत्र कौ वलते । ‘वल संवरणे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३) । ('कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले) । ‘अन्येभ्योऽपि (वा० ३.२१०१) इति डे कुवम् । यद्वा कुवते । ‘कूङ् शब्दे’ (तु० अ० से०) कुटादिः । पचाद्यच् (३.१.१३४) । उवङ् (६.४.७७) ॥ द्वे कमलकुमुदादीनां सामान्येन । अत एव ‘इन्दीवरे मांसशून्ये उत्पलं कुष्ठभूरुहे’ इति रभसः । 'श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम् इति नाममाला च ।