अनच्छः

सुधाव्याख्या

‘छो छेदने’ (दि० प० अ०) । न च्छयति दृष्टिम् । सुपि’ (३.२.४) इति क: । न च्छाद्यते वा । ‘अन्येष्वपि-’ (३.२.१०१) इति डः । ‘अच्छो भल्लूके स्फटिकेऽमलेऽच्छाऽभिमुखोऽव्ययम् इति हैम: ॥ (२) द्वे निर्मलस्य ।