कलुषः

सुधाव्याख्या

कलुष इति । लुषति । 'लुष हिंसायाम्-' । इगुपध-’ (३.१.१३५) इति कः । कस्य जलस्य लुषो घातकः । ‘कलुषं त्वाविले पापे' इति विश्वः ॥ (१)