अच्छः

सुधाव्याख्या

प्रसन्न इति ॥ प्रासदत् । ‘षद्लृ विशरणादौ’ (भ्वा०, तु० प० अ०) । ‘गत्यर्थ-’ (३.४.७२) इति क्तः । ‘प्रसन्ना स्त्री सुरायां स्यादच्छसंतुष्टयोस्त्रिषु ।


प्रक्रिया

धातुः - छो छेदने


छो + क - सुपि स्थः 3.2.4
छो + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
छा + अ - आदेच उपदेशेऽशिति 6.1.45
छ् + अ - आतो लोप इटि च 6.4.64
नञ् + छ + सु - नञ्‌ 2.2.6
नञ् + छ - सुपो धातुप्रातिपदिकयोः 2.4.71
न + छ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अछ - नलोपो नञः 6.3.73
अ + तुक् + छ - छे च 6.1.73
अ + त् + छ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + छ् + छ - स्तोः श्चुना श्चुः 8.4.40
अच् + छ - खरि च 8.4.55
अच्छ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अच्छ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अच्छ + रु - ससजुषो रुः 8.2.66
अच्छ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अच्छः - खरवसानयोर्विसर्जनीयः 8.3.15