सेचनम्

सुधाव्याख्या

सिच्यतेऽनेन । ‘करणा-’ (३.३.११५) इति ल्युट् । ‘सेचनं रक्षणे सेके नौकायाः सेकभाजने' इति विश्वमेदिन्यौ ॥ (२) द्वे नौस्थजलनिःसारणपात्रस्य ।