काष्ठकुद्दालः

सुधाव्याख्या

कुम् उद्दालयति । ‘दल विशरणे’ (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) काष्ठस्य कुद्दालः ॥ (२) द्वे पोतादेर्मलापनयनार्थं काष्ठादिरचितकुद्दालस्य ।


प्रक्रिया

धातुः - दलँ विशरणे विदारणे च


दल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कु + अम् + उत् + दल् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
कु + उत् + दल् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कु + उत् + दल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कु + उत् + दाल् + अ - अचो ञ्णिति 7.2.115
कुत् + दाल - शकन्ध्वादिषु पररूपं वक्तव्यम् (6.1.94) । वार्तिकम् ।
कुद् + दाल - झलां जश् झशि 8.4.53
काष्ठ + ङस् + कुद्दाल + सु - षष्ठी 2.2.8
काष्ठ + कुद्दाल - सुपो धातुप्रातिपदिकयोः 2.4.71
काष्ठकुद्दाल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काष्ठकुद्दाल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काष्ठकुद्दाल + रु - ससजुषो रुः 8.2.66
काष्ठकुद्दाल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काष्ठकुद्दालः - खरवसानयोर्विसर्जनीयः 8.3.15