क्षिपणी

सुधाव्याख्या

क्षिप्यतेऽनया । क्षिपेः किच्च' (उ० २.१०७) इत्यनिः ॥ ॥ बाहुलकाद्गुणे क्षेपणिरपि । क्षेपणं प्रेरणे, नौकादण्डजालभिदोः स्त्रियाम् । (१) द्वे नौकापार्श्वद्वयबद्धचालनकाष्ठस्य ।