कर्णधारः

सुधाव्याख्या

कर्णेति । ’कर्णः श्रोत्रमरित्रं च' इति दुर्गः । तं धरति । ‘धृञ् धारणे' (भ्वा० उ० अ०) । ‘कर्मण्यण्' (३.२.१) (१) नावा तरति । ‘नौद्व्यचष्ठन्' (४.४.७) द्वे नाविकस्य ।