देवताः

सुधाव्याख्या

देवताः ॥ स्त्रियाम् । रूपभेदादेव स्त्रीत्वे सिद्धे बहुवचनान्तपुंलिङ्गशङ्कावारणार्थ ‘स्त्रियाम्' इतिमुकुटः । तन्न । रूपभेदेनैव वारणाद्विसर्गं विना पुंलिङ्गकोटेरनुत्थानात् । अन्यथा ‘पद्मा गदा' इत्यादौ तस्या अनिवारणात् । अतो ‘देवपर्यायाः पुंसि' इति वक्ष्यति । तद्बाधनार्थमिदम् । "तलन्तः" इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन तल्-प्रत्ययान्तशब्दाः नित्यम् स्त्रीलिङ्गे एव प्रयुज्यन्ते ।