वृन्दारकाः

सुधाव्याख्या

प्रशस्तं वृन्दं येषाम् । ‘शृङ्गवृन्दाभ्यामारकन्' (५.२.१२० वा०) । (‘वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु') ॥


प्रक्रिया

वृन्द+आरकन् - शृङ्गवृन्दाभ्यामारकन् (5.2.121) । वार्तिकम् ।
वृन्द+आरक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वन्दारक - अकः सवर्णे दीर्घः 6.1.101
वृन्दारक + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वृन्दारक + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
वृन्दारकास् - प्रथमयोः पूर्वसवर्णः 6.1.102
वृन्दारकारु - ससजुषो रुः 8.2.66
वृन्दारकार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृन्दारकाः - खरवसानयोर्विसर्जनीयः 8.3.15