गीर्वाणाः

सुधाव्याख्या

गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रं येषाम् । दन्तोष्ठ्यपाठे गिरं वन्वते स्तुतिप्रियत्वात् । ‘वनु याचने' (त० आ० से०) । 'कर्मण्यण्' (३.२.१) । ‘पूर्वपदात्-' (८.४.३) इति णत्वम् ॥