जगत्प्राणः

सुधाव्याख्या

अत एव जगत्प्राणौ पृथगपि । 'जगत् स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु' इति रुद्रकोषः । ‘जगदाख्या स्मृता वाते विष्टपे जङ्गमेऽपि च । जगती भुवने ख्याता छन्दोभेदे जलेऽपि च' इति विश्वः । तत्र ‘द्युतिगमिजुहोतीनां द्वे च' (वा० ३.२.१७८) इति क्विपि द्वित्वे 'गमः क्वौ’ (६.४.४०) इति मलोपे तुकि जगत् जगतौ । यदा तु वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' (उ० २.८४) इति व्युत्पाद्यते, तदा ‘उगिदचाम् (७.१.७०) इति नुम् । जगत्, जगन्तौ । यत्तु-मुकुट; ‘यदा वर्तमाने पृषद्बृहन्महज्जगच्छतृवद् इत्येतन्नास्ति'-इत्यवोचत् । तन्न । उणादिसूत्रस्यासत्त्वे मानाभावात् । उगित्कार्यार्थत्वाच्च । एकत्वे तु जगतां प्राणः ।