मरुत्

सुधाव्याख्या

म्रियन्तेऽनेन वृद्धेन विना वा । मरुत् । ‘मृग्रोरुतिः’ (उ० १.९४) । ('मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम्') । मरुतशब्दोऽपि बोध्यः । ‘मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्’ इति विक्रमादित्यकोशात् । ‘मारुतः श्वसनः प्राणः समीरो मारुतो मरुत्’ इति संसारावर्ताच्च ।। (१२)