गन्धवहः

सुधाव्याख्या

वहति । पचाद्यच् (३.१.१३४) । गन्धस्य वहः । यत्तु-गन्धस्य वहः इति विगृह्य अकाराद नुपपदात्सोपपदो भवति विप्रतिषेधेन' (वा० ३.२.१) इत्यस्य प्रायिकत्वात् पचाद्यच् (३.१.१३४) इति मुकुटः । तन्न । प्रायिकत्वकल्पनाया निर्मुलत्वात् । उपपदाविवक्षायामचः (३.१.१३४) सिद्धत्वाच्च ।