पृषदश्वः

सुधाव्याख्या

पृषद् मृगभेदोऽश्वो वाहनमस्य । पृषतामम्बुकणानामश्व इवेति वा । यत्तु-पृषन्त्य-म्बुकणा अश्वाऽस्य-इति मुकुटः । तन्न । वाह्यवाहकभावस्य विपरीतत्वात् ।