सञ्ज्वरः

सुधाव्याख्या

‘ज्वर रोगे’ (भ्वा० प० से०) । ण्यन्तौ । संज्वरयति । पचाद्यच् (३.१.१३४) । यत्तु-संतापनं संतापः । घञ् (३.३१८) । संज्वरयति संज्वरः । अच् (३.१.१३४) इति मुकुटेनोक्तम् । तन्न । वैषम्ये प्रमाणाभावात् । भावकर्त्रभिधायिनोः समानार्थकत्वाभावात् । समौ समानार्थकौ समलिङ्गौ ।


प्रक्रिया

धातुः - ज्वरँ रोगे


ज्वर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + ज्वर् + णिच् - हेतुमति च 3.1.26
सम् + ज्वर् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सम् + ज्वर् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
सम् + ज्वर् + अच् - णेरनिटि 6.4.51
सम् + ज्वर् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
संज्वर् + अ - मोऽनुस्वारः 8.3.23
सञ्ज्वर - अनुस्वारस्य ययि परसवर्णः 8.4.58
सञ्ज्वर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सञ्ज्वर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सञ्ज्वर + रु - ससजुषो रुः 8.2.66
सञ्ज्वर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सञ्ज्वरः -खरवसानयोर्विसर्जनीयः 8.3.15