संतापः

सुधाव्याख्या

संतापयति । ‘तप संतापे’ (भ्वा० प० अ०) ।


प्रक्रिया

धातुः - तपँ सन्तापे


तप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + तप् + णिच् - हेतुमति च 3.1.26
सम् + तप् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सम् + ताप् + इ - अत उपधायाः 7.2.116
सम् + तप् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
सम् + ताप् + अच् - णेरनिटि 6.4.51
सम्+ताप्+अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
संताप् + अ - मोऽनुस्वारः 8.3.23
सन्ताप - अनुस्वारस्य ययि परसवर्णः 8.4.58
सन्ताप + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सन्ताप + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सन्ताप + रु - ससजुषो रुः 8.2.66
सन्ताप + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सन्तापः - खरवसानयोर्विसर्जनीयः 8.3.15