स्फुलिङ्गः

सुधाव्याख्या

'स्फु’ इत्यनुकरणशब्दः । स्फुना फूत्कारेण लिङ्गति । लिगि गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । स्फुलिंग जातावपि । अजादित्वाट्टाप् ।।


प्रक्रिया

धातुः - लिगिँ गतौ


लिग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लि + नुम् + ग् - इदितो नुम् धातोः 7.1.58
लि न् ग् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लिंग् - नश्चापदान्तस्य झलि 8.3.24
लिङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
स्फु + टा लिङ्ग्+अच् - उपपदमतिङ् 2.2.19, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
स्फु + लिङ्ग् + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
स्फु + लिङ्ग् +अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्फुलिङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्फुलिङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्फुलिङ्ग + रु - ससजुषो रुः 8.2.66
स्फुलिङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्फुलिङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15