अर्चिः

सुधाव्याख्या

अर्च्यते । अर्च पूजायाम्' (भ्वा० प० से०, चु० उ० अ०) । 'अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः’ उ०.२.१०८) । अर्चिः सान्तः ।। इनि (उ० ४.११८) त्विदन्तोऽपि । 'अग्नेर्भ्राजन्ते अर्चयः’ इति श्रुतेः ।। स्त्रियाम् इति अर्चिरादिभिः संबध्यते । तत्रार्चिषः ज्वालाभासोर्नपुंस्यर्चिः इति क्लीबत्वमपि वक्ष्यते । (‘अर्चिर्मयूखशिखयोः') ।